Skip to content

६. ऋतुचर्याध्यायः

Adhikarana १० (११) · Śloka ११

तत्र, वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रशान्ताः क्षितिमलप्रायाः, ता उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टम्भिताग्नीनां विदह्यन्ते, विदाहात् पित्तसञ्चयमापादयन्ति; स सञ्चयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्केऽर्ककिरणप्रविलायितः पैत्तिकान् व्याधीञ्जनयति | ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रशान्ताः स्निग्धा अत्यर्थं गुर्व्याश्च, ता उपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिनामविदग्धाः स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मसञ्चयमापादयन्ति; स सञ्चयो वसन्तेऽर्करश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीञ्जनयति | ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो भवन्त्यापश्च, ता उपयुज्यमानाः सूर्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुत्वाच्च वायोः सञ्चयमापादयन्ति; स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां देहिनां शीतवातवर्षेरितो वातिकान् व्याधीञ्जनयति | एवमेष दोषाणां सञ्चयप्रकोपहेतुरुक्तः ||११||

Meaning of the śloka

The passage explains seasonal accumulation and aggravation of the doshas. In varsha, plants are young and of limited potency, and waters are unsettled and laden with impurities from the earth. When consumed by beings whose bodies are damp and whose agni is obstructed by cold-associated vata, under cloudy skies and on water-soaked ground, these undergo vidaha and lead to pitta accumulation. In sharad, as clouds thin and mud dries, the sun's rays liquefy that accumulation and disorders associated with pitta arise. By hemanta, the plants have matured in potency and strength, and waters are settled, unctuous and heavy. When consumed by bodies supported by frosty winds under a mild sun, without vidaha, their unctuousness, coldness, heaviness and coating quality lead to shleshma accumulation. In vasanta, the sun's rays liquefy this accumulation and disorders associated with shleshma arise in bodies that remain somewhat stiff. In summer, the same plants and waters become depleted, dry and very light. Their dryness and lightness contribute to vata accumulation in bodies dried by the sun. At the onset of rains, with earth and bodies thoroughly damp, cold winds and rain stir that accumulated vata and give rise to vata-associated disorders. This is the account of the causes of dosha accumulation and aggravation.

🔊 Audio coming soon

Show commentary

पित्तादीनां सञ्चयप्रकोपौ वर्षादिषु यथा सहेतुकौ भवतस्तथा निर्दिशन्नाह- तत्र वर्षास्वित्यादि| तत्र तेषु ऋतुषु मध्ये, ओषधयो गोधूमचणकशाल्यादयः, तरुण्यः अभिनवाः, अल्पवीर्या अल्पशक्तयः, ‘भवन्ति’ इत्यध्याहारः; अन्ये तु वीर्यशब्दं शीतोष्णाख्यवीर्यवाचिनं मन्यन्ते| ननु, वर्षासु गोधूमादयः पुरातना एव भवन्ति, कथमभिनवा इत्युच्यन्ते? नैष दोषः, गोधूमचणकशाल्यादयोऽन्तःसूक्ष्मजलप्रवेशान्म्रदिमानमुपगताः किञ्चित्तिरस्कृतशक्तयः प्ररोहधर्मिण्यः प्रोच्छूनतामुपगता अनवा अपि तरुण्य इत्युच्यन्ते, शाकादयस्तु नूतना एव प्रयुज्यन्ते| आपश्चाप्रशान्ता अपरिणताः, नवत्वात्; अप्रसन्नाः कलुषा इत्यन्ये; क्षितिमलप्रायाः पृथिव्यास्तृणपर्णोत्करशवकोथादिमलबहुलाः, अत्रापि ‘भवन्ति’ इत्यध्याहारः| ता उपयुज्यमाना इत्यादि| विदह्यन्ते अम्लपाकमुपयान्ति| कास्ताः? पूर्वोक्ता ओषधय आपश्च| किं क्रियमाणाः? उपयुज्यमानाः| केषामम्लपाकमुपयान्ति? देहिनां; किंविशिष्टानां? शीतवातविष्टम्भिताग्नीनां; शीतेन कुपितो वातः शीतवातः (शारीरः ), तेन मन्दवेगीकृताग्नीनां; न पुनर्बाह्येन शीतवातेन; यतस्तेन बहिर्लोमकूपरोधेनोष्मणोऽनिर्गमादन्तरग्नेर्बलमेधते| पुनः किम्भूतानां देहिनां? क्लिन्नदेहानां आर्द्रीभूतशरीराणाम्| कस्यां सत्यां? भूमौ| किंविशिष्टायां? जलप्रक्लिन्नायां; पानीयेन सुष्ठु स्तिमितायाम्| क्व सति? नभसि, आकाशे| किंविशिष्टे? मेघावतते, मेघव्याप्ते| विदाहात् अम्लपाकात्| पित्तसञ्चयमिति संहतिरूपा वृद्धिः सञ्चयः; स्वस्थानवृद्धिरित्यन्ये| सञ्चीयमानमपि पित्तमृतुशैत्यात्तस्मिन् काले न कुप्यति| स सञ्चय इत्यादि| स एव पित्तस्य वर्षाकालोपचितः सञ्चयः, शरद्यल्पमेघे आकाशे सूर्यरश्मिभिः प्रविलायितः सन् पित्तोद्भवान् व्याधीनुत्पादयति| ता एवेत्यादि ता एवौषधयः पूर्वोक्ताः| कालपरिणामात् कालपरिपाकात्| परिणतवीर्याः सञ्जातशक्तिकाः| बलवत्यो देहोपचयहेतवः, अन्यथा परिणतवीर्यबलवतोरेकार्थत्वात् पुनरुक्तिः स्यात्| आपश्च प्रशान्ताः स्वच्छाः; क्षितिमलापगमादित्यन्ये| ता इति पूर्वोक्ता ओषधय आपश्च| उपयुज्यमानाः खाद्यमानाः पीयमानाश्च| सतुषारपवनोपस्तम्भितदेहानामिति सतुषारपवनेन हिमार्द्रवातेनोपस्तम्भितान्याप्यायितानि देहानि शरीराणि येषां ते तथोक्ताः| ता ओषधय आपश्च किंविशिष्टाः? अविदग्धाः, मधुरपाकमुपगताः| ऋत्वादिस्वभावात् कफस्य सञ्चीयमानस्य हिमानीवशात्तदानीं स्त्यानतैव भवति न प्रकोपः| स सञ्चय इत्यादि| अर्करश्मिप्रविलायित इति स्त्यानघृतवद्विलयनमात्रं वसन्ते भवति, न तूपशोषणाख्यः प्रशमः, कस्मात्? अर्कस्य नातितीक्ष्णत्वाच्छ्लेष्मप्राचुर्याच्च| श्लैष्मिकान् व्याधीन् अन्नद्वेषहृदयोत्क्लेदादीन्| ता एवौषधय इत्यादि| निदाघे ग्रीष्मे| निःसाराः निर्गतसाराः , सारोऽत्र गौरवम्| रूक्षाः निःस्नेहाः| न केवलमोषधय एवंविधा भवन्ति आपश्च भवन्तीत्यर्थः| ता उपयुज्यमाना इत्यादि|- ता अनन्तरनिर्दिष्टा औषधयो रौक्ष्यलघुत्वाभ्यां हेतुभ्यां सूर्यप्रतापोपशोषितदेहानां देहिनां नॄणां वातसञ्चयमापादयन्तीति पिण्डार्थः| यद्यपि शीतस्य वायोरुष्णे ग्रीष्मे सञ्चयो न युज्यते , तथाऽपि वातगुणेषु सर्वेषु रौक्ष्यं प्रधानं, तेनौषधीनामत्यर्थरौक्ष्येण रूक्षस्य वायोर्ग्रीष्मे सञ्चयः स्यादित्यदोषः | स सञ्चयः प्रावृषीत्यादि| स वातसञ्चयः शीतवातवर्षेरितो वातिकान् व्याधीन् कोष्ठतोदसञ्चरणादीन् जनयति| क्व काले? प्रावृषि; केषां वातिकान् व्याधीन् जनयति? देहिनां; किंविशिष्टानां? क्लिन्नदेहानां; कस्यां सत्यां? भूमावत्यर्थं जलोपक्लिन्नायाम्| एवमेष इत्यादि| एवमनेन प्रकारेण, एष इति कालस्वभावकृतौषधितारुण्यादिर्यावच्छीतवातवर्षेरितो वातिकान् व्याधीञ्जनयतीति दोषाणां यौ सञ्चयप्रकोपौ तयोरयं हेतुरुक्तः| ननु, दोषोपचयप्रकोपोपशमनिमित्तमिति त्रयाणां चयादीनां प्रतिज्ञातत्वात् कथं सञ्चयप्रकोपौ व्याख्यायोपसंहारः? नैष दोषः, प्रकोपे हि संशोधनं कार्यं; तत्र यदि यथाप्रतिज्ञं त्रीन् प्रशमसहितान् व्याख्याति तदा प्रशमान्तरितः प्रकोपोपक्रमविधिः स्यात्; तस्मात् सञ्चयप्रकोपावेव तावत् पृथगाख्याति||११||

Meaning of the commentary

Plants are exemplified by wheat, chickpeas and rice. 'Young' need not mean freshly harvested: older grains may absorb moisture, soften, swell and become capable of sprouting, with reduced potency, while vegetables may actually be new. Virya is explained as strength, though others take it specifically as cold or hot potency. Unsettled water is newly formed and unconditioned, or, in another explanation, turbid. Its impurities include grass, leaves and decomposing remains. Vidaha is explained as sour transformation during digestion. The vata that impairs agni is specifically bodily vata aggravated by cold, not simply an external cold wind. The commentator contrasts this with external cold closing the pores and retaining internal warmth. Sanchaya means increase in an accumulated mass, or, according to others, increase in the dosha's own site. Seasonal cold prevents the accumulated pitta from becoming aggravated immediately; autumn sunlight then liquefies it and pitta disorders arise. Mature potency means developed capacity, while strength-bearing means promoting bodily growth, so these descriptions are not redundant. Settled waters are clear, or free of earth-derived impurities. Frost-bearing wind is said to support the body. Avidagdha is explained as sweet transformation rather than sour transformation. Cold keeps accumulating kapha congealed; spring sunlight melts it like solidified ghee rather than drying and pacifying it, because the sun is not yet sufficiently intense and kapha is abundant. Examples of resulting disorders include aversion to food and hridayotkleda. Summer depletion is explained as loss of heaviness, and dryness as absence of unctuousness. The commentator addresses why cold vata can accumulate in hot summer: dryness is predominant among its qualities, and the extreme dryness of the consumed substances accounts for accumulation. Early rains then provoke the accumulated vata, with examples such as pricking pain and movement in the abdominal region. Finally, although subsiding of doshas was also promised, it is deferred so that the discussion of treatment for aggravation is not interrupted. Accumulation and aggravation are therefore explained together first.

Key terms

sa~jcayaH (sañcayaḥ)
Dosha accumulation; alternatively increase in its own site.
vidAha (vidāha)
Sour digestive transformation in this commentary.
prakopa
Aggravation following accumulation in the seasonal sequence.
niHsArAH (niḥsārāḥ)
Depleted, specifically explained here as lacking heaviness.

Adhikarana १४ (१५) · Śloka १५

तत्र, अव्यापन्नेषु ऋतुष्वव्यापन्ना ओषधयो भवन्त्यापश्च; ता उपयुज्यमानाः प्राणायुर्बलवीर्यौजस्कर्यो भवन्ति ||१५||

Meaning of the śloka

When the seasons are undisturbed, plants and waters are also undisturbed. When used, they are described as supporting pranas, life, strength, capacity and ojas.

🔊 Audio coming soon

Show commentary

सोऽयं दोषचयादिरव्यापन्नेषु ऋतुषु भवतीति दर्शयन्नाह- तत्राव्यापन्नेष्वित्यादि| प्राणा अग्नीषोमादयः, आयुः शरीरेन्द्रियसत्त्वात्ममनसां संयोगः, बलमुत्साहोपचयलक्षणं, वीर्यं शक्तिः, ओजः हृदयाश्रितं सप्तधातुस्नेहः||१५||

Meaning of the commentary

The preceding account of dosha accumulation and related stages concerns undisturbed seasons. Pranas are the vital principles beginning with Agni and Soma. Ayus is described through the conjunction of the body, senses, sattva, self and mind. Bala concerns vigour and bodily development; virya means capacity; and ojas is explained as the unctuous essence of the seven dhatus situated in the heart.

Key terms

ojaH (ojaḥ)
The unctuous essence of the seven dhatus, described here as situated in the heart.
vIryaM (vīryam)
Capacity or power in this explanation.